Thursday, 9 February 2012

Rig Veda Book 10 Hymn 15

उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः |
असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु ||
इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः |
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु ||
आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः |
बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः ||
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम |
त आ गतावसा शन्तमेनाथा नः शं योररपोदधात ||
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु |
त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते.अवन्त्वस्मान ||
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गर्णीतविश्वे |
मा हिंसिष्ट पितरः केन चिन नो यद व आगःपुरुषता कराम ||
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय |
पुत्रेभ्यः पितरस्तस्य वस्वः पर यछत त इहोर्जन्दधात ||
ये नः पूर्वे पितरः सोम्यासो.अनूहिरे सोमपीथंवसिष्ठाः |
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः परतिकाममत्तु ||
ये तात्र्षुर्देवत्रा जेहमाना होत्राविद सतोमतष्टासोर्कैः |
आग्ने याहि सुविदत्रेभिरर्वां सत्यैः कव्यैःपित्र्भिर्घर्मसद्भिः ||
ये सत्यासो हविरदो हविष्पा इद्रेण देवैः सरथन्दधानाः |
आग्ने याहि सहस्रं देववन्दैः परैःपूर्वैः पित्र्भिर्घर्मसद्भिः ||
अग्निष्वात्ताः पितर एह गछत सदः-सदः सदतसुप्रणीतयः |
अत्ता हवींषि परयतानि बर्हिष्यथारयिं सर्ववीरं दधातन ||
तवमग्न ईळितो जातवेदो.अवाड ढव्यानि सुरभीणिक्र्त्वी |
परादाः पित्र्भ्यः सवधया ते अक्षन्नद्धि तवन्देव परयता हवींषि ||
ये चेह पितरो ये च नेह यांश्च विद्म यानु च नप्रविद्म |
तवं वेत्थ यति ते जातवेदः सवधाभिर्यज्ञं सुक्र्तं जुषस्व ||
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः सवधयामादयन्ते |
तेभिः सवराळ असुनीतिमेतां यथावशन्तन्वं कल्पयस्व ||

http://www.vogaz.com

No comments:

Post a Comment