Sunday, 4 March 2012

Rig Veda Book 10 Hymn 115

चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे |
अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन ||
अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता |
अभिप्रमुरा जुह्वा सवध्वर इनो नप्रोथमानो यवसे वर्षा ||
तं वो विं न दरुषदं देवमन्धस इन्दुं परोथन्तम्प्रवपन्तमर्णवम |
आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः ||
वि यस्य ते जरयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः |
आ रण्वासो युयुधयो न सत्वनं तरितंनशन्त पर शिषन्त इष्टये ||
स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः |
अग्निः पातु गर्णतो अग्निः सूरीनग्निर्ददातुतेषामवो नः ||
वाजिन्तमाय सह्यसे सुपित्र्य तर्षु चयवानो अनु जातवेदसे |
अनुद्रे चिद यो धर्षता वरं सते महिन्तमाय धन्वनेदविष्यते ||
एवाग्निर्मर्तैः सह सूरिभिर्वसु षटवे सहसः सूनरोन्र्भिः |
मित्रासो न ये सुधिता रतायवो दयावो न दयुम्नैरभि सन्ति मानुषान ||
ऊर्जो नपात सहसावन्निति तवोपस्तुतस्य वन्दते वर्षा वाक |
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरन्दधानाः ||
इति तवाग्ने वर्ष्टिहव्यस्य पुत्रा उपस्तुतास रषयो.अवोचन |
तांश्च पाहि गर्णतश्च सूरीन वषड वषळ इत्यूर्ध्वासो अनक्षन नमो नम इत्यूर्ध्वासो अनक्षन ||
http://www.vogaz.com

No comments:

Post a Comment